Mahabharata

Adi Parva, Adhyaya 43

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 43, Verse 1

वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा

सनामा तव कन्येयं स्वसा मे तपसान्विता

Mahabharata

Adi Parva, Adhyaya 43, Verse 2

भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम

रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन

Mahabharata

Adi Parva, Adhyaya 43, Verse 3

प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति

जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह

Mahabharata

Adi Parva, Adhyaya 43, Verse 4

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः

जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्

Mahabharata

Adi Parva, Adhyaya 43, Verse 5

ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम्

जगाम भार्यामादाय स्तूयमानो महर्षिभिः

Mahabharata

Adi Parva, Adhyaya 43, Verse 6

शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम्

तत्र भार्यासहायः स जरत्कारुरुवास ह

Mahabharata

Adi Parva, Adhyaya 43, Verse 7

स तत्र समयं चक्रे भार्यया सह सत्तमः

विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन

Mahabharata

Adi Parva, Adhyaya 43, Verse 8

त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे

एतद्गृहाण वचनं मया यत्समुदीरितम्

Mahabharata

Adi Parva, Adhyaya 43, Verse 9

ततः परमसंविग्ना स्वसा नागपतेस्तु सा

अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति

Mahabharata

Adi Parva, Adhyaya 43, Verse 10

तथैव सा च भर्तारं दुःखशीलमुपाचरत्

उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी

Mahabharata

Adi Parva, Adhyaya 43, Verse 11

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा

भर्तारं तं यथान्यायमुपतस्थे महामुनिम्

Mahabharata

Adi Parva, Adhyaya 43, Verse 12

तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः

अतीव तपसा युक्तो वैश्वानरसमद्युतिः

शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः

Mahabharata

Adi Parva, Adhyaya 43, Verse 13

ततः कतिपयाहस्य जरत्कारुर्महातपाः

उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्

Mahabharata

Adi Parva, Adhyaya 43, Verse 14

तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्

अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा

वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी

Mahabharata

Adi Parva, Adhyaya 43, Verse 15

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा

दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्

Mahabharata

Adi Parva, Adhyaya 43, Verse 16

कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः

धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः

Mahabharata

Adi Parva, Adhyaya 43, Verse 17

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति

धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम्

Mahabharata

Adi Parva, Adhyaya 43, Verse 18

इति निश्चित्य मनसा जरत्कारुर्भुजंगमा

तमृषिं दीप्ततपसं शयानमनलोपमम्

उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी

Mahabharata

Adi Parva, Adhyaya 43, Verse 19

उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति

संध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः

Mahabharata

Adi Parva, Adhyaya 43, Verse 20

प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः

संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो

Mahabharata

Adi Parva, Adhyaya 43, Verse 21

एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः

भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 43, Verse 22

अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे

समीपे ते न वत्स्यामि गमिष्यामि यथागतम्

Mahabharata

Adi Parva, Adhyaya 43, Verse 23

न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः

अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते

Mahabharata

Adi Parva, Adhyaya 43, Verse 24

न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित्

किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा

Mahabharata

Adi Parva, Adhyaya 43, Verse 25

एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्

अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने

Mahabharata

Adi Parva, Adhyaya 43, Verse 26

नावमानात्कृतवती तवाहं प्रतिबोधनम्

धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया

Mahabharata

Adi Parva, Adhyaya 43, Verse 27

उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः

ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्

Mahabharata

Adi Parva, Adhyaya 43, Verse 28

न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे

समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः

Mahabharata

Adi Parva, Adhyaya 43, Verse 29

सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे

इतो मयि गते भीरु गतः स भगवानिति

त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि

Mahabharata

Adi Parva, Adhyaya 43, Verse 30

इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा

जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा