Mahabharata

Adi Parva, Adhyaya 42

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 42, Verse 1

एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः

उवाच स्वान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा

Mahabharata

Adi Parva, Adhyaya 42, Verse 2

अहमेव जरत्कारुः किल्बिषी भवतां सुतः

तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः

Mahabharata

Adi Parva, Adhyaya 42, Verse 3

पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया

किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः

Mahabharata

Adi Parva, Adhyaya 42, Verse 4

ममायं पितरो नित्यं हृद्यर्थः परिवर्तते

ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै

Mahabharata

Adi Parva, Adhyaya 42, Verse 5

एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः

मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः

Mahabharata

Adi Parva, Adhyaya 42, Verse 6

करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः

सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन

Mahabharata

Adi Parva, Adhyaya 42, Verse 7

भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता

प्रतिग्रहीता तामस्मि न भरेयं च यामहम्

Mahabharata

Adi Parva, Adhyaya 42, Verse 8

एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि

अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः

Mahabharata

Adi Parva, Adhyaya 42, Verse 9

एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः

न च स्म लभते भार्यां वृद्धोऽयमिति शौनक

Mahabharata

Adi Parva, Adhyaya 42, Verse 10

यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा

तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः

Mahabharata

Adi Parva, Adhyaya 42, Verse 11

यानि भूतानि सन्तीह स्थावराणि चराणि च

अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः

Mahabharata

Adi Parva, Adhyaya 42, Verse 12

उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्

निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया

Mahabharata

Adi Parva, Adhyaya 42, Verse 13

निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः

दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः

Mahabharata

Adi Parva, Adhyaya 42, Verse 14

यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः

ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्

Mahabharata

Adi Parva, Adhyaya 42, Verse 15

मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत्

भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत

Mahabharata

Adi Parva, Adhyaya 42, Verse 16

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः

तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्

Mahabharata

Adi Parva, Adhyaya 42, Verse 17

तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम्

प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः

Mahabharata

Adi Parva, Adhyaya 42, Verse 18

तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने

नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत

Mahabharata

Adi Parva, Adhyaya 42, Verse 19

असनामेति वै मत्वा भरणे चाविचारिते

मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे

Mahabharata

Adi Parva, Adhyaya 42, Verse 20

ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन

वासुके भरणं चास्या न कुर्यामित्युवाच ह