Mahabharata

Adi Parva, Adhyaya 41

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 41, Verse 1

एतस्मिन्नेव काले तु जरत्कारुर्महातपाः

चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः

Mahabharata

Adi Parva, Adhyaya 41, Verse 2

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः

तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह

Mahabharata

Adi Parva, Adhyaya 41, Verse 3

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः

स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्

Mahabharata

Adi Parva, Adhyaya 41, Verse 4

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्

तं च तन्तुं शनैराखुमाददानं बिलाश्रयम्

Mahabharata

Adi Parva, Adhyaya 41, Verse 5

निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः

उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत

Mahabharata

Adi Parva, Adhyaya 41, Verse 6

के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः

दुर्बलं खादितैर्मूलैराखुना बिलवासिना

Mahabharata

Adi Parva, Adhyaya 41, Verse 7

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्

तदप्ययं शनैराखुरादत्ते दशनैः शितैः

Mahabharata

Adi Parva, Adhyaya 41, Verse 8

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव

ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः

Mahabharata

Adi Parva, Adhyaya 41, Verse 9

ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्

कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः

Mahabharata

Adi Parva, Adhyaya 41, Verse 10

तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः

अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम्

Mahabharata

Adi Parva, Adhyaya 41, Verse 11

अथ वापि समग्रेण तरन्तु तपसा मम

भवन्तः सर्व एवास्मात्काममेवं विधीयताम्

Mahabharata

Adi Parva, Adhyaya 41, Verse 12

ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति

न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम्

Mahabharata

Adi Parva, Adhyaya 41, Verse 13

अस्ति नस्तात तपसः फलं प्रवदतां वर

संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ

Mahabharata

Adi Parva, Adhyaya 41, Verse 14

लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै

येन त्वां नाभिजानीमो लोके विख्यातपौरुषम्

Mahabharata

Adi Parva, Adhyaya 41, Verse 15

ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्

शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज

Mahabharata

Adi Parva, Adhyaya 41, Verse 16

यायावरा नाम वयमृषयः संशितव्रताः

लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयाद्विभो

Mahabharata

Adi Parva, Adhyaya 41, Verse 17

प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै

अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा

Mahabharata

Adi Parva, Adhyaya 41, Verse 18

मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले

जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः

नियतात्मा महात्मा च सुव्रतः सुमहातपाः

Mahabharata

Adi Parva, Adhyaya 41, Verse 19

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्

न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन

Mahabharata

Adi Parva, Adhyaya 41, Verse 20

तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्

स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया

Mahabharata

Adi Parva, Adhyaya 41, Verse 21

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः

साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो

कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन

Mahabharata

Adi Parva, Adhyaya 41, Verse 22

यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान्

एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः

Mahabharata

Adi Parva, Adhyaya 41, Verse 23

यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः

एते नस्तन्तवस्तात कालेन परिभक्षिताः

Mahabharata

Adi Parva, Adhyaya 41, Verse 24

यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्

तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः

Mahabharata

Adi Parva, Adhyaya 41, Verse 25

यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः

स तं तपोरतं मन्दं शनैः क्षपयते तुदन्

जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्

Mahabharata

Adi Parva, Adhyaya 41, Verse 26

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम

छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः

नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा

Mahabharata

Adi Parva, Adhyaya 41, Verse 27

अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः

छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः

Mahabharata

Adi Parva, Adhyaya 41, Verse 28

तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत्

तत्सर्वं न समं तात संतत्येति सतां मतम्

Mahabharata

Adi Parva, Adhyaya 41, Verse 29

स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम्

यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः

Mahabharata

Adi Parva, Adhyaya 41, Verse 30

यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा

तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया