Mahabharata

Adi Parva, Adhyaya 39

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 39, Verse 1

दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम्

ततो वृक्षं मया दष्टमिमं जीवय काश्यप

Mahabharata

Adi Parva, Adhyaya 39, Verse 2

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च

न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम

Mahabharata

Adi Parva, Adhyaya 39, Verse 3

दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे

अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम

Mahabharata

Adi Parva, Adhyaya 39, Verse 4

एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना

अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः

Mahabharata

Adi Parva, Adhyaya 39, Verse 5

स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते

आशीविषविषोपेतः प्रजज्वाल समन्ततः

Mahabharata

Adi Parva, Adhyaya 39, Verse 6

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्

कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम्

Mahabharata

Adi Parva, Adhyaya 39, Verse 7

भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा

भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 39, Verse 8

विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ

अहं संजीवयाम्येनं पश्यतस्ते भुजंगम

Mahabharata

Adi Parva, Adhyaya 39, Verse 9

ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः

भस्मराशीकृतं वृक्षं विद्यया समजीवयत्

Mahabharata

Adi Parva, Adhyaya 39, Verse 10

अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम्

पलाशिनं शाखिनं च तथा विटपिनं पुनः

Mahabharata

Adi Parva, Adhyaya 39, Verse 11

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना

उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि

Mahabharata

Adi Parva, Adhyaya 39, Verse 12

विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा

कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन

Mahabharata

Adi Parva, Adhyaya 39, Verse 13

यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्

अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्

Mahabharata

Adi Parva, Adhyaya 39, Verse 14

विप्रशापाभिभूते च क्षीणायुषि नराधिपे

घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्

Mahabharata

Adi Parva, Adhyaya 39, Verse 15

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्

विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत्

Mahabharata

Adi Parva, Adhyaya 39, Verse 16

धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगम

ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम

Mahabharata

Adi Parva, Adhyaya 39, Verse 17

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्

अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम

Mahabharata

Adi Parva, Adhyaya 39, Verse 18

तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः

प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्

Mahabharata

Adi Parva, Adhyaya 39, Verse 19

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा

क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः

लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्

Mahabharata

Adi Parva, Adhyaya 39, Verse 20

निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि

जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्

Mahabharata

Adi Parva, Adhyaya 39, Verse 21

अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्

मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः

Mahabharata

Adi Parva, Adhyaya 39, Verse 22

स चिन्तयामास तदा मायायोगेन पार्थिवः

मया वञ्चयितव्योऽसौ क उपायो भवेदिति

Mahabharata

Adi Parva, Adhyaya 39, Verse 23

ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्

फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः

Mahabharata

Adi Parva, Adhyaya 39, Verse 24

गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया

फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम्

Mahabharata

Adi Parva, Adhyaya 39, Verse 25

ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः

उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च

Mahabharata

Adi Parva, Adhyaya 39, Verse 26

तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्

कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान्

Mahabharata

Adi Parva, Adhyaya 39, Verse 27

गतेषु तेषु नागेषु तापसच्छद्मरूपिषु

अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः

Mahabharata

Adi Parva, Adhyaya 39, Verse 28

भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः

तापसैरुपनीतानि फलानि सहिता मया

Mahabharata

Adi Parva, Adhyaya 39, Verse 29

ततो राजा ससचिवः फलान्यादातुमैच्छत

यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः

ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक

Mahabharata

Adi Parva, Adhyaya 39, Verse 30

स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्

अस्तमभ्येति सविता विषादद्य न मे भयम्