Mahabharata

Adi Parva, Adhyaya 38

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 38, Verse 1

यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्

प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया

Mahabharata

Adi Parva, Adhyaya 38, Verse 2

नैवान्यथेदं भविता पितरेष ब्रवीमि ते

नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन्

Mahabharata

Adi Parva, Adhyaya 38, Verse 3

जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा

नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति

Mahabharata

Adi Parva, Adhyaya 38, Verse 4

पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु

यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः

Mahabharata

Adi Parva, Adhyaya 38, Verse 5

किं पुनर्बाल एव त्वं तपसा भावितः प्रभो

वर्धते च प्रभवतां कोपोऽतीव महात्मनाम्

Mahabharata

Adi Parva, Adhyaya 38, Verse 6

सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर

पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम्

Mahabharata

Adi Parva, Adhyaya 38, Verse 7

स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन्

चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि

Mahabharata

Adi Parva, Adhyaya 38, Verse 8

क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्

ततो धर्मविहीनानां गतिरिष्टा न विद्यते

Mahabharata

Adi Parva, Adhyaya 38, Verse 9

शम एव यतीनां हि क्षमिणां सिद्धिकारकः

क्षमावतामयं लोकः परश्चैव क्षमावताम्

Mahabharata

Adi Parva, Adhyaya 38, Verse 10

तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः

क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्

Mahabharata

Adi Parva, Adhyaya 38, Verse 11

मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै

तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै

Mahabharata

Adi Parva, Adhyaya 38, Verse 12

मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना

ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा

Mahabharata

Adi Parva, Adhyaya 38, Verse 13

एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः

परिक्षिते नृपतये दयापन्नो महातपाः

Mahabharata

Adi Parva, Adhyaya 38, Verse 14

संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च

शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्

Mahabharata

Adi Parva, Adhyaya 38, Verse 15

सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्

विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः

Mahabharata

Adi Parva, Adhyaya 38, Verse 16

पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः

आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः

शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ

Mahabharata

Adi Parva, Adhyaya 38, Verse 17

शमीको नाम राजेन्द्र विषये वर्तते तव

ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः

Mahabharata

Adi Parva, Adhyaya 38, Verse 18

तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः

अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम

क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे

Mahabharata

Adi Parva, Adhyaya 38, Verse 19

तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै

तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति

Mahabharata

Adi Parva, Adhyaya 38, Verse 20

तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्

तदन्यथा न शक्यं च कर्तुं केनचिदप्युत

Mahabharata

Adi Parva, Adhyaya 38, Verse 21

न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम्

ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना

Mahabharata

Adi Parva, Adhyaya 38, Verse 22

इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः

पर्यतप्यत तत्पापं कृत्वा राजा महातपाः

Mahabharata

Adi Parva, Adhyaya 38, Verse 23

तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा

भूय एवाभवद्राजा शोकसंतप्तमानसः

Mahabharata

Adi Parva, Adhyaya 38, Verse 24

अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु

पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः

Mahabharata

Adi Parva, Adhyaya 38, Verse 25

न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत

अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्

Mahabharata

Adi Parva, Adhyaya 38, Verse 26

ततस्तं प्रेषयामास राजा गौरमुखं तदा

भूयः प्रसादं भगवान्करोत्विति ममेति वै

Mahabharata

Adi Parva, Adhyaya 38, Verse 27

तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा

मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः

Mahabharata

Adi Parva, Adhyaya 38, Verse 28

निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित्

प्रासादं कारयामास एकस्तम्भं सुरक्षितम्

Mahabharata

Adi Parva, Adhyaya 38, Verse 29

रक्षां च विदधे तत्र भिषजश्चौषधानि च

ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत्

Mahabharata

Adi Parva, Adhyaya 38, Verse 30

राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः

मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः