Mahabharata

Adi Parva, Adhyaya 37

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 37, Verse 1

एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः

मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना

Mahabharata

Adi Parva, Adhyaya 37, Verse 2

स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन्

अपृच्छत कथं तातः स मेऽद्य मृतधारकः

Mahabharata

Adi Parva, Adhyaya 37, Verse 3

राज्ञा परिक्षिता तात मृगयां परिधावता

अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजंगमः

Mahabharata

Adi Parva, Adhyaya 37, Verse 4

किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः

ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 5

स राजा मृगयां यातः परिक्षिदभिमन्युजः

ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा

Mahabharata

Adi Parva, Adhyaya 37, Verse 6

न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने

पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 7

तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः

पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव

Mahabharata

Adi Parva, Adhyaya 37, Verse 8

स च मौनव्रतोपेतो नैव तं प्रत्यभाषत

तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत्

Mahabharata

Adi Parva, Adhyaya 37, Verse 9

शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः

सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 10

श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः

कोपसंरक्तनयनः प्रज्वलन्निव मन्युना

Mahabharata

Adi Parva, Adhyaya 37, Verse 11

आविष्टः स तु कोपेन शशाप नृपतिं तदा

वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः

Mahabharata

Adi Parva, Adhyaya 37, Verse 12

योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च

स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी

Mahabharata

Adi Parva, Adhyaya 37, Verse 13

तं पापमतिसंक्रुद्धस्तक्षकः पन्नगोत्तमः

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः

Mahabharata

Adi Parva, Adhyaya 37, Verse 14

सप्तरात्रादितो नेता यमस्य सदनं प्रति

द्विजानामवमन्तारं कुरूणामयशस्करम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 15

इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात्

आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 16

स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै

शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः

Mahabharata

Adi Parva, Adhyaya 37, Verse 17

दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्

श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना

Mahabharata

Adi Parva, Adhyaya 37, Verse 18

राज्ञा परिक्षिता कोपादशपं तमहं नृपम्

यथार्हति स एवोग्रं शापं कुरुकुलाधमः

Mahabharata

Adi Parva, Adhyaya 37, Verse 19

सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः

वैवस्वतस्य भवनं नेता परमदारुणम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 20

तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्

न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 21

वयं तस्य नरेन्द्रस्य विषये निवसामहे

न्यायतो रक्षितास्तेन तस्य पापं न रोचये

Mahabharata

Adi Parva, Adhyaya 37, Verse 22

सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा

क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः

Mahabharata

Adi Parva, Adhyaya 37, Verse 23

यदि राजा न रक्षेत पीडा वै नः परा भवेत्

न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 24

रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः

चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः

Mahabharata

Adi Parva, Adhyaya 37, Verse 25

परिक्षित्तु विशेषेण यथास्य प्रपितामहः

रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा

Mahabharata

Adi Parva, Adhyaya 37, Verse 26

तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना

अजानता व्रतमिदं कृतमेतदसंशयम्

Mahabharata

Adi Parva, Adhyaya 37, Verse 27

तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्

न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा