Mahabharata

Adi Parva, Adhyaya 36

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 36, Verse 1

जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन

इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः

Mahabharata

Adi Parva, Adhyaya 36, Verse 2

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि

जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि

Mahabharata

Adi Parva, Adhyaya 36, Verse 3

जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्

शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः

Mahabharata

Adi Parva, Adhyaya 36, Verse 4

क्षपयामास तीव्रेण तपसेत्यत उच्यते

जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा

Mahabharata

Adi Parva, Adhyaya 36, Verse 5

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा

उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्

Mahabharata

Adi Parva, Adhyaya 36, Verse 6

अथ कालस्य महतः स मुनिः संशितव्रतः

तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत

Mahabharata

Adi Parva, Adhyaya 36, Verse 7

स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन्

चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत्

Mahabharata

Adi Parva, Adhyaya 36, Verse 8

ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु

परिक्षिदिति विख्यातो राजा कौरववंशभृत्

Mahabharata

Adi Parva, Adhyaya 36, Verse 9

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि

बभूव मृगयाशीलः पुरास्य प्रपितामहः

Mahabharata

Adi Parva, Adhyaya 36, Verse 10

मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा

अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः

Mahabharata

Adi Parva, Adhyaya 36, Verse 11

स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा

पृष्ठतो धनुरादाय ससार गहने वने

Mahabharata

Adi Parva, Adhyaya 36, Verse 12

यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि

अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः

Mahabharata

Adi Parva, Adhyaya 36, Verse 13

न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम्

पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति

परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः

Mahabharata

Adi Parva, Adhyaya 36, Verse 14

दूरं चापहृतस्तेन मृगेण स महीपतिः

परिश्रान्तः पिपासार्त आससाद मुनिं वने

Mahabharata

Adi Parva, Adhyaya 36, Verse 15

गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्

भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः

Mahabharata

Adi Parva, Adhyaya 36, Verse 16

तमभिद्रुत्य वेगेन स राजा संशितव्रतम्

अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः

Mahabharata

Adi Parva, Adhyaya 36, Verse 17

भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः

मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि

Mahabharata

Adi Parva, Adhyaya 36, Verse 18

स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः

तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत्

Mahabharata

Adi Parva, Adhyaya 36, Verse 19

धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत

न च किंचिदुवाचैनं शुभं वा यदि वाशुभम्

Mahabharata

Adi Parva, Adhyaya 36, Verse 20

स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्

दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः

Mahabharata

Adi Parva, Adhyaya 36, Verse 21

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः

शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः

Mahabharata

Adi Parva, Adhyaya 36, Verse 22

स देवं परमीशानं सर्वभूतहिते रतम्

ब्रह्माणमुपतस्थे वै काले काले सुसंयतः

स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्

Mahabharata

Adi Parva, Adhyaya 36, Verse 23

सख्योक्तः क्रीडमानेन स तत्र हसता किल

संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः

ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम

Mahabharata

Adi Parva, Adhyaya 36, Verse 24

तेजस्विनस्तव पिता तथैव च तपस्विनः

शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव

Mahabharata

Adi Parva, Adhyaya 36, Verse 25

व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः

अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु

Mahabharata

Adi Parva, Adhyaya 36, Verse 26

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः

दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा