Mahabharata

Adi Parva, Adhyaya 35

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 35, Verse 1

एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम

सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन्

Mahabharata

Adi Parva, Adhyaya 35, Verse 2

ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत

जरत्कारुं स्वसारं वै परं हर्षमवाप च

Mahabharata

Adi Parva, Adhyaya 35, Verse 3

ततो नातिमहान्कालः समतीत इवाभवत्

अथ देवासुराः सर्वे ममन्थुर्वरुणालयम्

Mahabharata

Adi Parva, Adhyaya 35, Verse 4

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः

समाप्यैव च तत्कर्म पितामहमुपागमन्

Mahabharata

Adi Parva, Adhyaya 35, Verse 5

देवा वासुकिना सार्धं पितामहमथाब्रुवन्

भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम्

Mahabharata

Adi Parva, Adhyaya 35, Verse 6

तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि

जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः

Mahabharata

Adi Parva, Adhyaya 35, Verse 7

हितो ह्ययं सदास्माकं प्रियकारी च नागराट्

कुरु प्रसादं देवेश शमयास्य मनोज्वरम्

Mahabharata

Adi Parva, Adhyaya 35, Verse 8

मयैवैतद्वितीर्णं वै वचनं मनसामराः

एलापत्रेण नागेन यदस्याभिहितं पुरा

Mahabharata

Adi Parva, Adhyaya 35, Verse 9

तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा

विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः

Mahabharata

Adi Parva, Adhyaya 35, Verse 10

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः

तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु

Mahabharata

Adi Parva, Adhyaya 35, Verse 11

यदेलापत्रेण वचस्तदोक्तं भुजगेन ह

पन्नगानां हितं देवास्तत्तथा न तदन्यथा

Mahabharata

Adi Parva, Adhyaya 35, Verse 12

एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा

सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्

Mahabharata

Adi Parva, Adhyaya 35, Verse 13

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः

शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति