Mahabharata

Adi Parva, Adhyaya 33

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 33, Verse 1

मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः

वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्

Mahabharata

Adi Parva, Adhyaya 33, Verse 2

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः

ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः

Mahabharata

Adi Parva, Adhyaya 33, Verse 3

अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः

तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे

Mahabharata

Adi Parva, Adhyaya 33, Verse 4

सर्वेषामेव शापानां प्रतिघातो हि विद्यते

न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः

Mahabharata

Adi Parva, Adhyaya 33, Verse 5

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः

शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः

Mahabharata

Adi Parva, Adhyaya 33, Verse 6

नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः

न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत्

Mahabharata

Adi Parva, Adhyaya 33, Verse 7

तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम्

यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम्

Mahabharata

Adi Parva, Adhyaya 33, Verse 8

अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे

यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्

Mahabharata

Adi Parva, Adhyaya 33, Verse 9

यथा स यज्ञो न भवेद्यथा वापि पराभवेत्

जनमेजयस्य सर्पाणां विनाशकरणाय हि

Mahabharata

Adi Parva, Adhyaya 33, Verse 10

तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः

समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः

Mahabharata

Adi Parva, Adhyaya 33, Verse 11

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः

जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति

Mahabharata

Adi Parva, Adhyaya 33, Verse 12

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः

मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः

Mahabharata

Adi Parva, Adhyaya 33, Verse 13

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्

तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते

Mahabharata

Adi Parva, Adhyaya 33, Verse 14

स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः

यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्

Mahabharata

Adi Parva, Adhyaya 33, Verse 15

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्

हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः

Mahabharata

Adi Parva, Adhyaya 33, Verse 16

अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति

सर्पसत्रविधानज्ञो राजकार्यहिते रतः

Mahabharata

Adi Parva, Adhyaya 33, Verse 17

तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति

तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति

Mahabharata

Adi Parva, Adhyaya 33, Verse 18

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः

तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति

Mahabharata

Adi Parva, Adhyaya 33, Verse 19

तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजंगमाः

अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना

Mahabharata

Adi Parva, Adhyaya 33, Verse 20

सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा

अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्

Mahabharata

Adi Parva, Adhyaya 33, Verse 21

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्

वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः

Mahabharata

Adi Parva, Adhyaya 33, Verse 22

स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः

प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति

Mahabharata

Adi Parva, Adhyaya 33, Verse 23

यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः

जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति

Mahabharata

Adi Parva, Adhyaya 33, Verse 24

अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः

स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना

Mahabharata

Adi Parva, Adhyaya 33, Verse 25

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे

यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति

वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम्

Mahabharata

Adi Parva, Adhyaya 33, Verse 26

अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्

गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः

Mahabharata

Adi Parva, Adhyaya 33, Verse 27

अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः

दशामैनं प्रगृह्याशु कृतमेवं भविष्यति

छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति

Mahabharata

Adi Parva, Adhyaya 33, Verse 28

एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता

यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम्

Mahabharata

Adi Parva, Adhyaya 33, Verse 29

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम्

वासुकिश्चापि संचिन्त्य तानुवाच भुजंगमान्

Mahabharata

Adi Parva, Adhyaya 33, Verse 30

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजंगमाः

सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते