Adi Parva, Adhyaya 32, Verse 1
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः
शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः
शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम्
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः
तपो विपुलमातस्थे वायुभक्षो यतव्रतः
गन्धमादनमासाद्य बदर्यां च तपोरतः
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च
एकान्तशीली नियतः सततं विजितेन्द्रियः
तप्यमानं तपो घोरं तं ददर्श पितामहः
परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम्
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ
ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम्
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्
अभ्यसूयन्ति सततं परस्परममित्रवत्
ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत
न मर्षयन्ति सततं विनतां ससुतां च ते
अस्माकं चापरो भ्राता वैनतेयः पितामह
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः
वरप्रदानात्स पितुः कश्यपस्य महात्मनः
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्
कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्
दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम
अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च
त्वं शेष सम्यक्चलितां यथाव;त्संगृह्य तिष्ठस्व यथाचला स्यात्
यथाह देवो वरदः प्रजापति;र्महीपतिर्भूतपतिर्जगत्पतिः
तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते
अधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यति
इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः
बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः
अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान्
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः
सुपर्णं च सखायं वै भगवानमरोत्तमः
प्रादादनन्ताय तदा वैनतेयं पितामहः