Mahabharata

Adi Parva, Adhyaya 31

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 31, Verse 1

भुजंगमानां शापस्य मात्रा चैव सुतेन च

विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन

Mahabharata

Adi Parva, Adhyaya 31, Verse 2

वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा

नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः

Mahabharata

Adi Parva, Adhyaya 31, Verse 3

पन्नगानां तु नामानि न कीर्तयसि सूतज

प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्

Mahabharata

Adi Parva, Adhyaya 31, Verse 4

बहुत्वान्नामधेयानि भुजगानां तपोधन

न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु

Mahabharata

Adi Parva, Adhyaya 31, Verse 5

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्

ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ

Mahabharata

Adi Parva, Adhyaya 31, Verse 6

कालियो मणिनागश्च नागश्चापूरणस्तथा

नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः

Mahabharata

Adi Parva, Adhyaya 31, Verse 7

नीलानीलौ तथा नागौ कल्माषशबलौ तथा

आर्यकश्चादिकश्चैव नागश्च शलपोतकः

Mahabharata

Adi Parva, Adhyaya 31, Verse 8

सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः

आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा

Mahabharata

Adi Parva, Adhyaya 31, Verse 9

निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा

बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः

Mahabharata

Adi Parva, Adhyaya 31, Verse 10

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा

वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ

Mahabharata

Adi Parva, Adhyaya 31, Verse 11

नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः

क्षेमकश्च महानागो नागः पिण्डारकस्तथा

Mahabharata

Adi Parva, Adhyaya 31, Verse 12

करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः

मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः

Mahabharata

Adi Parva, Adhyaya 31, Verse 13

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा

कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा

Mahabharata

Adi Parva, Adhyaya 31, Verse 14

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्

हस्तिभद्रः पिठरको मुखरः कोणवासनः

Mahabharata

Adi Parva, Adhyaya 31, Verse 15

कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः

कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा

कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ

Mahabharata

Adi Parva, Adhyaya 31, Verse 16

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम

बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः

Mahabharata

Adi Parva, Adhyaya 31, Verse 17

एतेषां प्रसवो यश्च प्रसवस्य च संततिः

असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम

Mahabharata

Adi Parva, Adhyaya 31, Verse 18

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च

अशक्यान्येव संख्यातुं भुजगानां तपोधन