Mahabharata

Adi Parva, Adhyaya 30

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 30, Verse 1

सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर

बलं तु मम जानीहि महच्चासह्यमेव च

Mahabharata

Adi Parva, Adhyaya 30, Verse 2

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्

गुणसंकीर्तनं चापि स्वयमेव शतक्रतो

Mahabharata

Adi Parva, Adhyaya 30, Verse 3

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया

न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः

Mahabharata

Adi Parva, Adhyaya 30, Verse 4

सपर्वतवनामुर्वीं ससागरवनामिमाम्

पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम्

Mahabharata

Adi Parva, Adhyaya 30, Verse 5

सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्

वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्

Mahabharata

Adi Parva, Adhyaya 30, Verse 6

इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः

आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः

Mahabharata

Adi Parva, Adhyaya 30, Verse 7

प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम्

न कार्यं तव सोमेन मम सोमः प्रदीयताम्

अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्

Mahabharata

Adi Parva, Adhyaya 30, Verse 8

किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया

न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्

Mahabharata

Adi Parva, Adhyaya 30, Verse 9

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्

त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर

Mahabharata

Adi Parva, Adhyaya 30, Verse 10

वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज

यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम

Mahabharata

Adi Parva, Adhyaya 30, Verse 11

इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्

स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः

Mahabharata

Adi Parva, Adhyaya 30, Verse 12

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्

भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः

Mahabharata

Adi Parva, Adhyaya 30, Verse 13

तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्

Mahabharata

Adi Parva, Adhyaya 30, Verse 14

आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्

अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्

Mahabharata

Adi Parva, Adhyaya 30, Verse 15

इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः

स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः

Mahabharata

Adi Parva, Adhyaya 30, Verse 16

अदासी चैव मातेयमद्यप्रभृति चास्तु मे

यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्

Mahabharata

Adi Parva, Adhyaya 30, Verse 17

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत

शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः

Mahabharata

Adi Parva, Adhyaya 30, Verse 18

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा

स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः

Mahabharata

Adi Parva, Adhyaya 30, Verse 19

तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्

सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा

Mahabharata

Adi Parva, Adhyaya 30, Verse 20

ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा

अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः

Mahabharata

Adi Parva, Adhyaya 30, Verse 21

ततः सुपर्णः परमप्रहृष्टवा;न्विहृत्य मात्रा सह तत्र कानने

भुजंगभक्षः परमार्चितः खगै;रहीनकीर्तिर्विनतामनन्दयत्

Mahabharata

Adi Parva, Adhyaya 30, Verse 22

इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि

असंशयं त्रिदिवमियात्स पुण्यभा;ङ्महात्मनः पतगपतेः प्रकीर्तनात्