Adi Parva, Adhyaya 29, Verse 1
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती
विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ
चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्
तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत्
अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत्
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः
समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान्
अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः
विष्णुना तु तदाकाशे वैनतेयः समेयिवान्
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः
उवाच चैनं भूयोऽपि नारायणमिदं वचः
अजरश्चामरश्च स्याममृतेन विनाप्यहम्
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्
भवतेऽपि वरं दद्मि वृणीतां भगवानपि
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम्
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्
अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत्
विहंगमं सुरामित्रं हरन्तममृतं बलात्
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम्
वज्रस्य च करिष्यामि तव चैव शतक्रतो
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे
न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन
तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः
खगो महदिदं भूतमिति मत्वाभ्यभाषत
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम