Mahabharata

Adi Parva, Adhyaya 28

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 28, Verse 1

ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे

गरुत्मान्पक्षिराट्तूर्णं संप्राप्तो विबुधान्प्रति

Mahabharata

Adi Parva, Adhyaya 28, Verse 2

तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः

परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि

Mahabharata

Adi Parva, Adhyaya 28, Verse 3

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः

भौवनः सुमहावीर्यः सोमस्य परिरक्षिता

Mahabharata

Adi Parva, Adhyaya 28, Verse 4

स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः

मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि

Mahabharata

Adi Parva, Adhyaya 28, Verse 5

रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः

कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्

Mahabharata

Adi Parva, Adhyaya 28, Verse 6

तेनावकीर्णा रजसा देवा मोहमुपागमन्

न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः

Mahabharata

Adi Parva, Adhyaya 28, Verse 7

एवं संलोडयामास गरुडस्त्रिदिवालयम्

पक्षतुण्डप्रहारैश्च देवान्स विददार ह

Mahabharata

Adi Parva, Adhyaya 28, Verse 8

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्

विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत

Mahabharata

Adi Parva, Adhyaya 28, Verse 9

अथ वायुरपोवाह तद्रजस्तरसा बली

ततो वितिमिरे जाते देवाः शकुनिमार्दयन्

Mahabharata

Adi Parva, Adhyaya 28, Verse 10

ननाद चोच्चैर्बलवान्महामेघरवः खगः

वध्यमानः सुरगणैः सर्वभूतानि भीषयन्

उत्पपात महावीर्यः पक्षिराट्परवीरहा

Mahabharata

Adi Parva, Adhyaya 28, Verse 11

तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्

वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्

Mahabharata

Adi Parva, Adhyaya 28, Verse 12

पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः

क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः

Mahabharata

Adi Parva, Adhyaya 28, Verse 13

नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः

कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत

Mahabharata

Adi Parva, Adhyaya 28, Verse 14

विनर्दन्निव चाकाशे वैनतेयः प्रतापवान्

पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्

Mahabharata

Adi Parva, Adhyaya 28, Verse 15

ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः

नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु

Mahabharata

Adi Parva, Adhyaya 28, Verse 16

साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्

प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः

Mahabharata

Adi Parva, Adhyaya 28, Verse 17

दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम्

मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम्

Mahabharata

Adi Parva, Adhyaya 28, Verse 18

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा

क्रथनेन च शूरेण तपनेन च खेचरः

Mahabharata

Adi Parva, Adhyaya 28, Verse 19

उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा

प्ररुजेन च संयुद्धं चकार प्रलिहेन च

Mahabharata

Adi Parva, Adhyaya 28, Verse 20

तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः

युगान्तकाले संक्रुद्धः पिनाकीव महाबलः

Mahabharata

Adi Parva, Adhyaya 28, Verse 21

महावीर्या महोत्साहास्तेन ते बहुधा क्षताः

रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः

Mahabharata

Adi Parva, Adhyaya 28, Verse 22

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्

अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत

Mahabharata

Adi Parva, Adhyaya 28, Verse 23

आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्

दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम्

Mahabharata

Adi Parva, Adhyaya 28, Verse 24

ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा

नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन

Mahabharata

Adi Parva, Adhyaya 28, Verse 25

ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः

ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य