Adi Parva, Adhyaya 26, Verse 1
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा
अभज्यत तरोः शाखा भग्नां चैनामधारयत्
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा
अभज्यत तरोः शाखा भग्नां चैनामधारयत्
तां भग्नां स महाशाखां स्मयन्समवलोकयन्
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान्
स तद्विनाशसंत्रासादनुपत्य खगाधिपः
शाखामास्येन जग्राह तेषामेवान्ववेक्षया
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन्
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः
दयार्थं वालखिल्यानां न च स्थानमविन्दत
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम्
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्
अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम्
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम्
अप्रधृष्यमजेयं च देवदानवराक्षसैः
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम्
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्
मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः
प्रसादयामास स तान्कश्यपः पुत्रकारणात्
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम्
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ
एवमुक्ता भगवता मुनयस्ते समभ्ययुः
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः
ततस्तेष्वपयातेषु पितरं विनतात्मजः
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम्
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम्
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः
न तां वध्रः परिणहेच्छतचर्मा महानणुः
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः
ततः स शतसाहस्रं योजनान्तरमागतः
कालेन नातिमहता गरुडः पततां वरः
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्
मुमोच पुष्पवर्षं च समागलितपादपः
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्
शाखिनो बहवश्चापि शाखयाभिहतास्तया
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः
भक्षयामास गरुडस्तावुभौ गजकच्छपौ
ततः पर्वतकूटाग्रादुत्पपात मनोजवः
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम्
सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता
तथा वसूनां रुद्राणामादित्यानां च सर्वशः
साध्यानां मरुतां चैव ये चान्ये देवतागणाः
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः