Adi Parva, Adhyaya 24, Verse 1
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्
सहस्राणामनेकानां तान्भुक्त्वामृतमानय
न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः
भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा
दहेदङ्गारवत्पुत्र तं विद्याद्ब्राह्मणर्षभम्
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः
जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम्
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक
शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा
अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये
ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात
ततो निषादान्बलवानुपागम;द्बुभुक्षितः काल इवान्तको महान्
स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत्
समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन्
ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट्
ततो निषादास्त्वरिताः प्रवव्रजु;र्यतो मुखं तस्य भुजंगभोजिनः
तदाननं विवृतमतिप्रमाणव;त्समभ्ययुर्गगनमिवार्दिताः खगाः
सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने
ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः
निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा