Mahabharata
Adi Parva, Adhyaya 22, Verse 1
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः
नीलजीमूतसंघातैर्व्योम सर्वं समावृणोत्
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः
नीलजीमूतसंघातैर्व्योम सर्वं समावृणोत्
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि
संघातितमिवाकाशं जलदैः सुमहाद्भुतैः
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः
संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः
मेघस्तनितनिर्घोषमम्बरं समपद्यत
नागानामुत्तमो हर्षस्तदा वर्षति वासवे
आपूर्यत मही चापि सलिलेन समन्ततः