Mahabharata

Adi Parva, Adhyaya 21

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 21, Verse 1

ततः कामगमः पक्षी महावीर्यो महाबलः

मातुरन्तिकमागच्छत्परं तीरं महोदधेः

Mahabharata

Adi Parva, Adhyaya 21, Verse 2

यत्र सा विनता तस्मिन्पणितेन पराजिता

अतीव दुःखसंतप्ता दासीभावमुपागता

Mahabharata

Adi Parva, Adhyaya 21, Verse 3

ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ

काल आहूय वचनं कद्रूरिदमभाषत

Mahabharata

Adi Parva, Adhyaya 21, Verse 4

नागानामालयं भद्रे सुरम्यं रमणीयकम्

समुद्रकुक्षावेकान्ते तत्र मां विनते वह

Mahabharata

Adi Parva, Adhyaya 21, Verse 5

ततः सुपर्णमाता तामवहत्सर्पमातरम्

पन्नगान्गरुडश्चापि मातुर्वचनचोदितः

Mahabharata

Adi Parva, Adhyaya 21, Verse 6

स सूर्यस्याभितो याति वैनतेयो विहंगमः

सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन्

तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्

Mahabharata

Adi Parva, Adhyaya 21, Verse 7

नमस्ते देवदेवेश नमस्ते बलसूदन

नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते

Mahabharata

Adi Parva, Adhyaya 21, Verse 8

सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव

त्वमेव परमं त्राणमस्माकममरोत्तम

Mahabharata

Adi Parva, Adhyaya 21, Verse 9

ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर

त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे

Mahabharata

Adi Parva, Adhyaya 21, Verse 10

त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम्

त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः

Mahabharata

Adi Parva, Adhyaya 21, Verse 11

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः

त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः

Mahabharata

Adi Parva, Adhyaya 21, Verse 12

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः

त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्

Mahabharata

Adi Parva, Adhyaya 21, Verse 13

त्वं सर्वममृतं देव त्वं सोमः परमार्चितः

त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः

Mahabharata

Adi Parva, Adhyaya 21, Verse 14

शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा

संवत्सरर्तवो मासा रजन्यश्च दिनानि च

Mahabharata

Adi Parva, Adhyaya 21, Verse 15

त्वमुत्तमा सगिरिवना वसुंधरा; सभास्करं वितिमिरमम्बरं तथा

महोदधिः सतिमितिमिंगिलस्तथा; महोर्मिमान्बहुमकरो झषालयः

Mahabharata

Adi Parva, Adhyaya 21, Verse 16

महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः

अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये

Mahabharata

Adi Parva, Adhyaya 21, Verse 17

त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च

त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः