Adi Parva, Adhyaya 20, Verse 1
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह
न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह
न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा
निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान्
विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत्
ततः सा विनता तस्मिन्पणितेन पराजिता
अभवद्दुःखसंतप्ता दासीभावं समास्थिता
एतस्मिन्नन्तरे चैव गरुडः काल आगते
विना मात्रा महातेजा विदार्याण्डमजायत
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः
तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम्
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः
गरुडो बलवानेष मम तुल्यः स्वतेजसा
एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन्
अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः
त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम्
बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव
तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम्
त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे
समाक्षिपन्भानुमतः प्रभां मुहु;स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्
दिवाकरः परिकुपितो यथा दहे;त्प्रजास्तथा दहसि हुताशनप्रभ
भयंकरः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत्
खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम्
महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम्
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा
तेजसः प्रतिसंहारमात्मनः स चकार ह