Mahabharata

Adi Parva, Adhyaya 19

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 19, Verse 1

ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ

कद्रूश्च विनता चैव भगिन्यौ ते तपोधन

Mahabharata

Adi Parva, Adhyaya 19, Verse 2

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा

जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्

Mahabharata

Adi Parva, Adhyaya 19, Verse 3

ददृशाते तदा तत्र समुद्रं निधिमम्भसाम्

तिमिंगिलझषाकीर्णं मकरैरावृतं तथा

Mahabharata

Adi Parva, Adhyaya 19, Verse 4

सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्

उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 5

आकरं सर्वरत्नानामालयं वरुणस्य च

नागानामालयं रम्यमुत्तमं सरितां पतिम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 6

पातालज्वलनावासमसुराणां च बन्धनम्

भयंकरं च सत्त्वानां पयसां निधिमर्णवम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 7

शुभं दिव्यममर्त्यानाममृतस्याकरं परम्

अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 8

घोरं जलचरारावरौद्रं भैरवनिस्वनम्

गम्भीरावर्तकलिलं सर्वभूतभयंकरम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 9

वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम्

वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः

Mahabharata

Adi Parva, Adhyaya 19, Verse 10

चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम्

पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 11

गां विन्दता भगवता गोविन्देनामितौजसा

वराहरूपिणा चान्तर्विक्षोभितजलाविलम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 12

ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा

अनासादितगाधं च पातालतलमव्ययम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 13

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः

युगादिकालशयनं विष्णोरमिततेजसः

Mahabharata

Adi Parva, Adhyaya 19, Verse 14

वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम्

अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 15

महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः

अभिसार्यमाणमनिशं ददृशाते महार्णवम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 16

गम्भीरं तिमिमकरोग्रसंकुलं तं; गर्जन्तं जलचररावरौद्रनादैः

विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम्

Mahabharata

Adi Parva, Adhyaya 19, Verse 17

इत्येवं झषमकरोर्मिसंकुलं तं; गम्भीरं विकसितमम्बरप्रकाशम्

पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्