Mahabharata

Adi Parva, Adhyaya 18

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 18, Verse 1

एतत्ते सर्वमाख्यातममृतं मथितं यथा

यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः

Mahabharata

Adi Parva, Adhyaya 18, Verse 2

यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्

उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम्

Mahabharata

Adi Parva, Adhyaya 18, Verse 3

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे

ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे

Mahabharata

Adi Parva, Adhyaya 18, Verse 4

कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते

एहि सार्धं मया दीव्य दासीभावाय भामिनि

Mahabharata

Adi Parva, Adhyaya 18, Verse 5

एवं ते समयं कृत्वा दासीभावाय वै मिथः

जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह

Mahabharata

Adi Parva, Adhyaya 18, Verse 6

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती

आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः

Mahabharata

Adi Parva, Adhyaya 18, Verse 7

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा

तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजंगमान्

Mahabharata

Adi Parva, Adhyaya 18, Verse 8

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति

जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः

Mahabharata

Adi Parva, Adhyaya 18, Verse 9

शापमेनं तु शुश्राव स्वयमेव पितामहः

अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि

Mahabharata

Adi Parva, Adhyaya 18, Verse 10

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत

बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया

Mahabharata

Adi Parva, Adhyaya 18, Verse 11

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः

तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै

प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने