Mahabharata

Adi Parva, Adhyaya 16

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 16, Verse 1

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्

मन्दरं पर्वतवरं लताजालसमावृतम्

Mahabharata

Adi Parva, Adhyaya 16, Verse 2

नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम्

किंनरैरप्सरोभिश्च देवैरपि च सेवितम्

Mahabharata

Adi Parva, Adhyaya 16, Verse 3

एकादश सहस्राणि योजनानां समुच्छ्रितम्

अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्

Mahabharata

Adi Parva, Adhyaya 16, Verse 4

तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा

विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्

Mahabharata

Adi Parva, Adhyaya 16, Verse 5

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्

मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः

Mahabharata

Adi Parva, Adhyaya 16, Verse 6

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः

नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्

Mahabharata

Adi Parva, Adhyaya 16, Verse 7

अथ पर्वतराजानं तमनन्तो महाबलः

उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्

Mahabharata

Adi Parva, Adhyaya 16, Verse 8

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे

तमूचुरमृतार्थाय निर्मथिष्यामहे जलम्

Mahabharata

Adi Parva, Adhyaya 16, Verse 9

अपांपतिरथोवाच ममाप्यंशो भवेत्ततः

सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति

Mahabharata

Adi Parva, Adhyaya 16, Verse 10

ऊचुश्च कूर्मराजानमकूपारं सुरासुराः

गिरेरधिष्ठानमस्य भवान्भवितुमर्हति

Mahabharata

Adi Parva, Adhyaya 16, Verse 11

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्

तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत्

Mahabharata

Adi Parva, Adhyaya 16, Verse 12

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्

देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्

अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः

Mahabharata

Adi Parva, Adhyaya 16, Verse 13

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः

Mahabharata

Adi Parva, Adhyaya 16, Verse 14

अनन्तो भगवान्देवो यतो नारायणस्ततः

शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत्

Mahabharata

Adi Parva, Adhyaya 16, Verse 15

वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः

सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्

Mahabharata

Adi Parva, Adhyaya 16, Verse 16

ते धूमसंघाः संभूता मेघसंघाः सविद्युतः

अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्

Mahabharata

Adi Parva, Adhyaya 16, Verse 17

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः

सुरासुरगणान्माल्यैः सर्वतः समवाकिरन्

Mahabharata

Adi Parva, Adhyaya 16, Verse 18

बभूवात्र महाघोषो महामेघरवोपमः

उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः

Mahabharata

Adi Parva, Adhyaya 16, Verse 19

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा

विलयं समुपाजग्मुः शतशो लवणाम्भसि

Mahabharata

Adi Parva, Adhyaya 16, Verse 20

वारुणानि च भूतानि विविधानि महीधरः

पातालतलवासीनि विलयं समुपानयत्

Mahabharata

Adi Parva, Adhyaya 16, Verse 21

तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्

न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः

Mahabharata

Adi Parva, Adhyaya 16, Verse 22

तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः

विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्

Mahabharata

Adi Parva, Adhyaya 16, Verse 23

ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्

विगतासूनि सर्वाणि सत्त्वानि विविधानि च

Mahabharata

Adi Parva, Adhyaya 16, Verse 24

तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः

वारिणा मेघजेनेन्द्रः शमयामास सर्वतः

Mahabharata

Adi Parva, Adhyaya 16, Verse 25

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि

महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः

Mahabharata

Adi Parva, Adhyaya 16, Verse 26

तेषाममृतवीर्याणां रसानां पयसैव च

अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्

Mahabharata

Adi Parva, Adhyaya 16, Verse 27

अथ तस्य समुद्रस्य तज्जातमुदकं पयः

रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम्

Mahabharata

Adi Parva, Adhyaya 16, Verse 28

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्

श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्

Mahabharata

Adi Parva, Adhyaya 16, Verse 29

ऋते नारायणं देवं दैत्या नागोत्तमास्तथा

चिरारब्धमिदं चापि सागरस्यापि मन्थनम्

Mahabharata

Adi Parva, Adhyaya 16, Verse 30

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्

विधत्स्वैषां बलं विष्णो भवानत्र परायणम्