Mahabharata

Adi Parva, Adhyaya 14

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 14, Verse 1

सौते कथय तामेतां विस्तरेण कथां पुनः

आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः

Mahabharata

Adi Parva, Adhyaya 14, Verse 2

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया

प्रीयामहे भृशं तात पितेवेदं प्रभाषसे

Mahabharata

Adi Parva, Adhyaya 14, Verse 3

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव

आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद

Mahabharata

Adi Parva, Adhyaya 14, Verse 4

आयुष्यमिदमाख्यानमास्तीकं कथयामि ते

यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया

Mahabharata

Adi Parva, Adhyaya 14, Verse 5

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे

आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे

Mahabharata

Adi Parva, Adhyaya 14, Verse 6

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह

प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः

Mahabharata

Adi Parva, Adhyaya 14, Verse 7

वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ

Mahabharata

Adi Parva, Adhyaya 14, Verse 8

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले

ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ

Mahabharata

Adi Parva, Adhyaya 14, Verse 9

तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम्

एवमस्त्विति तं चाह कश्यपं विनता तदा

Mahabharata

Adi Parva, Adhyaya 14, Verse 10

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम्

Mahabharata

Adi Parva, Adhyaya 14, Verse 11

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः

ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत्

Mahabharata

Adi Parva, Adhyaya 14, Verse 12

कालेन महता कद्रूरण्डानां दशतीर्दश

जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा

Mahabharata

Adi Parva, Adhyaya 14, Verse 13

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः

सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च

Mahabharata

Adi Parva, Adhyaya 14, Verse 14

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत

Mahabharata

Adi Parva, Adhyaya 14, Verse 15

ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी

अण्डं बिभेद विनता तत्र पुत्रमदृक्षत

Mahabharata

Adi Parva, Adhyaya 14, Verse 16

पूर्वार्धकायसंपन्नमितरेणाप्रकाशता

स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः

Mahabharata

Adi Parva, Adhyaya 14, Verse 17

योऽहमेवं कृतो मातस्त्वया लोभपरीतया

शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि

Mahabharata

Adi Parva, Adhyaya 14, Verse 18

पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह

एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति

Mahabharata

Adi Parva, Adhyaya 14, Verse 19

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्

न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम्

Mahabharata

Adi Parva, Adhyaya 14, Verse 20

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया

विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः

Mahabharata

Adi Parva, Adhyaya 14, Verse 21

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः

अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा

Mahabharata

Adi Parva, Adhyaya 14, Verse 22

गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः

स जातमात्रो विनतां परित्यज्य खमाविशत्

Mahabharata

Adi Parva, Adhyaya 14, Verse 23

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्

विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः