Mahabharata

Adi Parva, Adhyaya 13

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 13, Verse 1

किमर्थं राजशार्दूलः स राजा जनमेजयः

सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे

Mahabharata

Adi Parva, Adhyaya 13, Verse 2

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः

मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात्

Mahabharata

Adi Parva, Adhyaya 13, Verse 3

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्

स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे

Mahabharata

Adi Parva, Adhyaya 13, Verse 4

महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज

सर्वमेतदशेषेण शृणु मे वदतां वर

Mahabharata

Adi Parva, Adhyaya 13, Verse 5

श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्

आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः

Mahabharata

Adi Parva, Adhyaya 13, Verse 6

इतिहासमिमं वृद्धाः पुराणं परिचक्षते

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः

Mahabharata

Adi Parva, Adhyaya 13, Verse 7

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः

शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान्

Mahabharata

Adi Parva, Adhyaya 13, Verse 8

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते

Mahabharata

Adi Parva, Adhyaya 13, Verse 9

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः

ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा

Mahabharata

Adi Parva, Adhyaya 13, Verse 10

जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः

यायावराणां धर्मज्ञः प्रवरः संशितव्रतः

Mahabharata

Adi Parva, Adhyaya 13, Verse 11

अटमानः कदाचित्स स्वान्ददर्श पितामहान्

लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान्

Mahabharata

Adi Parva, Adhyaya 13, Verse 12

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्

के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः

Mahabharata

Adi Parva, Adhyaya 13, Verse 13

वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते

मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना

Mahabharata

Adi Parva, Adhyaya 13, Verse 14

यायावरा नाम वयमृषयः संशितव्रताः

संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्

Mahabharata

Adi Parva, Adhyaya 13, Verse 15

अस्माकं संततिस्त्वेको जरत्कारुरिति श्रुतः

मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः

Mahabharata

Adi Parva, Adhyaya 13, Verse 16

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति

तेन लम्बामहे गर्ते संतानप्रक्षयादिह

Mahabharata

Adi Parva, Adhyaya 13, Verse 17

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा

कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम

Mahabharata

Adi Parva, Adhyaya 13, Verse 18

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः

किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि

Mahabharata

Adi Parva, Adhyaya 13, Verse 19

मम पूर्वे भवन्तो वै पितरः सपितामहाः

ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्

Mahabharata

Adi Parva, Adhyaya 13, Verse 20

यतस्व यत्नवांस्तात संतानाय कुलस्य नः

आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो

Mahabharata

Adi Parva, Adhyaya 13, Verse 21

न हि धर्मफलैस्तात न तपोभिः सुसंचितैः

तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह

Mahabharata

Adi Parva, Adhyaya 13, Verse 22

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु

पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्

Mahabharata

Adi Parva, Adhyaya 13, Verse 23

न दारान्वै करिष्यामि सदा मे भावितं मनः

भवतां तु हितार्थाय करिष्ये दारसंग्रहम्

Mahabharata

Adi Parva, Adhyaya 13, Verse 24

समयेन च कर्ताहमनेन विधिपूर्वकम्

तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम्

Mahabharata

Adi Parva, Adhyaya 13, Verse 25

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः

भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः

Mahabharata

Adi Parva, Adhyaya 13, Verse 26

दरिद्राय हि मे भार्यां को दास्यति विशेषतः

प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति

Mahabharata

Adi Parva, Adhyaya 13, Verse 27

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः

अनेन विधिना शश्वन्न करिष्येऽहमन्यथा

Mahabharata

Adi Parva, Adhyaya 13, Verse 28

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै

शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम

Mahabharata

Adi Parva, Adhyaya 13, Verse 29

ततो निवेशाय तदा स विप्रः संशितव्रतः

महीं चचार दारार्थी न च दारानविन्दत

Mahabharata

Adi Parva, Adhyaya 13, Verse 30

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्

चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव