Mahabharata
Adi Parva, Adhyaya 12, Verse 1
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः
सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः
सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे
आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः
तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि
लब्धसंज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्