Adi Parva, Adhyaya 11, Verse 1
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः
भृशं संशितवाक्तात तपोबलसमन्वितः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः
भृशं संशितवाक्तात तपोबलसमन्वितः
स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम्
अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै
लब्ध्वा च स पुनः संज्ञां मामुवाच तपोधनः
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया
तथावीर्यो भुजंगस्त्वं मम कोपाद्भविष्यसि
तस्याहं तपसो वीर्यं जानमानस्तपोधन
भृशमुद्विग्नहृदयस्तमवोचं वनौकसम्
प्रयतः संभ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः
सखेति हसतेदं ते नर्मार्थं वै कृतं मया
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम्
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्
मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः
नानृतं वै मया प्रोक्तं भवितेदं कथंचन
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत
श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः
स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम्
अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित्
ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः
वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्
ब्राह्मणस्य परो धर्मो वेदानां धरणादपि
क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो
जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम