Mahabharata
Adi Parva, Adhyaya 10, Verse 1
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह
तत्र मे समयो घोर आत्मनोरग वै कृतः
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह
तत्र मे समयो घोर आत्मनोरग वै कृतः
हन्यां सदैव भुजगं यं यं पश्येयमित्युत
ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान्
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा
नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम्
उवाच चैनं भगवान्रुरुः संशमयन्निव
कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम
कियन्तं चैव कालं ते वपुरेतद्भविष्यति