Adi Parva, Adhyaya 9, Verse 1
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः
रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः
रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु
अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम्
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी
बान्धवानां च सर्वेषां किं नु दुःखमतः परम्
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि
सम्यगाराधितास्तेन संजीवतु मम प्रिया
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः
प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा
न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम्
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर
करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान्
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम
शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा
समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा
विवाहं तौ च रेमाते परस्परहितैषिणौ
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम्
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः
अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्
शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम्
तत उद्यम्य दण्डं स कालदण्डोपमं तदा
अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः
नापराध्यामि ते किंचिदहमद्य तपोधन
संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः