Mahabharata

Adi Parva, Adhyaya 8

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 8, Verse 1

स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्

सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्

Mahabharata

Adi Parva, Adhyaya 8, Verse 2

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्

रुरुः प्रमद्वरायां तु शुनकं समजीजनत्

Mahabharata

Adi Parva, Adhyaya 8, Verse 3

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः

विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः

Mahabharata

Adi Parva, Adhyaya 8, Verse 4

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः

स्थूलकेश इति ख्यातः सर्वभूतहिते रतः

Mahabharata

Adi Parva, Adhyaya 8, Verse 5

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्

गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः

Mahabharata

Adi Parva, Adhyaya 8, Verse 6

अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन

उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति

Mahabharata

Adi Parva, Adhyaya 8, Verse 7

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह

कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया

Mahabharata

Adi Parva, Adhyaya 8, Verse 8

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः

स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्

Mahabharata

Adi Parva, Adhyaya 8, Verse 9

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः

जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च

ववृधे सा वरारोहा तस्याश्रमपदे शुभा

Mahabharata

Adi Parva, Adhyaya 8, Verse 10

प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता

ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः

Mahabharata

Adi Parva, Adhyaya 8, Verse 11

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्

बभूव किल धर्मात्मा मदनानुगतात्मवान्

Mahabharata

Adi Parva, Adhyaya 8, Verse 12

पितरं सखिभिः सोऽथ वाचयामास भार्गवः

प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम्

Mahabharata

Adi Parva, Adhyaya 8, Verse 13

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्

विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते

Mahabharata

Adi Parva, Adhyaya 8, Verse 14

ततः कतिपयाहस्य विवाहे समुपस्थिते

सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी

Mahabharata

Adi Parva, Adhyaya 8, Verse 15

नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम्

पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता

Mahabharata

Adi Parva, Adhyaya 8, Verse 16

स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा

विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्

Mahabharata

Adi Parva, Adhyaya 8, Verse 17

सा दष्टा सहसा भूमौ पतिता गतचेतना

व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः

Mahabharata

Adi Parva, Adhyaya 8, Verse 18

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता

भूयो मनोहरतरा बभूव तनुमध्यमा

Mahabharata

Adi Parva, Adhyaya 8, Verse 19

ददर्श तां पिता चैव ते चैवान्ये तपस्विनः

विचेष्टमानां पतितां भूतले पद्मवर्चसम्

Mahabharata

Adi Parva, Adhyaya 8, Verse 20

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः

स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः

Mahabharata

Adi Parva, Adhyaya 8, Verse 21

भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः

प्रमतिः सह पुत्रेण तथान्ये वनवासिनः

Mahabharata

Adi Parva, Adhyaya 8, Verse 22

तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम्

रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ