Adi Parva, Adhyaya 7, Verse 1
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्
किमिदं साहसं ब्रह्मन्कृतवानसि सांप्रतम्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्
किमिदं साहसं ब्रह्मन्कृतवानसि सांप्रतम्
धर्मे प्रयतमानस्य सत्यं च वदतः समम्
पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत्
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम
जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत्
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु
अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च
वेदोक्तेन विधानेन मयि यद्धूयते हविः
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै
आपो देवगणाः सर्वे आपः पितृगणास्तथा
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह
देवताः पितरस्तस्मात्पितरश्चापि देवताः
एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु
देवताः पितरश्चैव जुह्वते मयि यत्सदा
त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः
अमावास्यां च पितरः पौर्णमास्यां च देवताः
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः
सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम्
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः
विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः
अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु
अग्नेरावेदयञ्शापं क्रियासंहारमेव च
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत्
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः
स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः
त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि
उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन्
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम्
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम्
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे
दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः
अग्निश्च परमां प्रीतिमवाप हतकल्मषः
एवमेष पुरावृत्त इतिहासोऽग्निशापजः
पुलोमस्य विनाशश्च च्यवनस्य च संभवः