Adi Parva, Adhyaya 6, Verse 1
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्
सा तमादाय सुश्रोणी ससार भृगुनन्दनम्
च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी
अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः
केनासि रक्षसे तस्मै कथितेह जिहीर्षवे
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम्
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव
साहं तव सुतस्यास्य तेजसा परिमोक्षिता
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्
शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि