Mahabharata

Adi Parva, Adhyaya 5

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 5, Verse 1

पुराणमखिलं तात पिता तेऽधीतवान्पुरा

कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे

Mahabharata

Adi Parva, Adhyaya 5, Verse 2

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्

कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव

Mahabharata

Adi Parva, Adhyaya 5, Verse 3

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्

कथयस्व कथामेतां कल्याः स्म श्रवणे तव

Mahabharata

Adi Parva, Adhyaya 5, Verse 4

यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः

वैशंपायनविप्राद्यैस्तैश्चापि कथितं पुरा

Mahabharata

Adi Parva, Adhyaya 5, Verse 5

यदधीतं च पित्रा मे सम्यक्चैव ततो मया

तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः

पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन

Mahabharata

Adi Parva, Adhyaya 5, Verse 6

इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने

निगदामि कथायुक्तं पुराणाश्रयसंयुतम्

Mahabharata

Adi Parva, Adhyaya 5, Verse 7

भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः

च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः

प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत

Mahabharata

Adi Parva, Adhyaya 5, Verse 8

रुरोरपि सुतो जज्ञे शुनको वेदपारगः

प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात्

Mahabharata

Adi Parva, Adhyaya 5, Verse 9

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः

धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः

Mahabharata

Adi Parva, Adhyaya 5, Verse 10

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः

च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः

Mahabharata

Adi Parva, Adhyaya 5, Verse 11

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता

तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः

Mahabharata

Adi Parva, Adhyaya 5, Verse 12

तस्मिन्गर्भे संभृतेऽथ पुलोमायां भृगूद्वह

समये समशीलिन्यां धर्मपत्न्यां यशस्विनः

Mahabharata

Adi Parva, Adhyaya 5, Verse 13

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे

आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह

Mahabharata

Adi Parva, Adhyaya 5, Verse 14

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्

हृच्छयेन समाविष्टो विचेताः समपद्यत

Mahabharata

Adi Parva, Adhyaya 5, Verse 15

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना

न्यमन्त्रयत वन्येन फलमूलादिना तदा

Mahabharata

Adi Parva, Adhyaya 5, Verse 16

तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम्

दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम्

Mahabharata

Adi Parva, Adhyaya 5, Verse 17

अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम्

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा

Mahabharata

Adi Parva, Adhyaya 5, Verse 18

शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै

सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते

Mahabharata

Adi Parva, Adhyaya 5, Verse 19

मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी

पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे

Mahabharata

Adi Parva, Adhyaya 5, Verse 20

सेयं यदि वरारोहा भृगोर्भार्या रहोगता

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्

Mahabharata

Adi Parva, Adhyaya 5, Verse 21

मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति

मत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम्

Mahabharata

Adi Parva, Adhyaya 5, Verse 22

तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम्

शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत

Mahabharata

Adi Parva, Adhyaya 5, Verse 23

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा

साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः

Mahabharata

Adi Parva, Adhyaya 5, Verse 24

मत्पूर्वभार्यापहृता भृगुणानृतकारिणा

सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि

Mahabharata

Adi Parva, Adhyaya 5, Verse 25

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात्

जातवेदः पश्यतस्ते वद सत्यां गिरं मम

Mahabharata

Adi Parva, Adhyaya 5, Verse 26

तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम्

भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः