Mahabharata
Adi Parva, Adhyaya 4, Verse 4
योऽसौ दिव्याः कथा वेद देवतासुरसंकथाः
मनुष्योरगगन्धर्वकथा वेद च सर्वशः
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
योऽसौ दिव्याः कथा वेद देवतासुरसंकथाः
मनुष्योरगगन्धर्वकथा वेद च सर्वशः
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः
सत्यवादी शमपरस्तपस्वी नियतव्रतः
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्
तस्मिन्नध्यासति गुरावासनं परमार्चितम्
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम्
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः
यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्