Adi Parva, Adhyaya 3, Verse 60
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ
दिव्यौ सुपर्णौ विरजौ विमाना;वधिक्षियन्तौ भुवनानि विश्वा
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ
दिव्यौ सुपर्णौ विरजौ विमाना;वधिक्षियन्तौ भुवनानि विश्वा
हिरण्मयौ शकुनी सांपरायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ
शुक्रं वयन्तौ तरसा सुवेमा;वभि व्ययन्तावसितं विवस्वत्
ग्रस्तां सुपर्णस्य बलेन वर्तिका;ममुञ्चतामश्विनौ सौभगाय
तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन्
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति
नानागोष्ठा विहिता एकदोहना;स्तावश्विनौ दुहतो घर्ममुक्थ्यम्
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः
अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी
एकं चक्रं वर्तते द्वादशारं प्रधि;षण्णाभिमेकाक्षममृतस्य धारणम्
यस्मिन्देवा अधि विश्वे विषक्ता;स्तावश्विनौ मुञ्चतो मा विषीदतम्
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी
भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति
तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति
युवां वर्णान्विकुरुथो विश्वरूपां;स्तेऽधिक्षियन्ति भुवनानि विश्वा
ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य
तौ नासत्यावमृतावृतावृधा;वृते देवास्तत्प्रपदेन सूते
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते
सद्यो जातो मातरमत्ति गर्भ;स्तावश्विनौ मुञ्चथो जीवसे गाः
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः
विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम्
य ऐरावतराजानः सर्पाः समितिशोभनाः
वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे
इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति
ये चैनमुपसर्पन्ति ये च दूरं परं गताः
अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा
तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम्
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ
कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः
अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम्
करवाणि सदा चाहं नमस्तस्मै महात्मने
त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्
चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ
कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता
कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः
नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः
समागच्छत राजानमुत्तङ्को जनमेजयम्
पुरा तक्षशिलातस्तं निवृत्तमपराजितम्
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः
उवाचैनं वचः काले शब्दसंपन्नया गिरा
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम
बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह
जनमेजयः प्रसन्नात्मा सम्यक्संपूज्य तं मुनिम्