Mahabharata

Sauptika Parva, Adhyaya 18

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 1

ततो देवयुगेऽतीते देवा वै समकल्पयन्

यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 2

कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः

भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 3

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः

नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 4

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः

तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 5

लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः

पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 6

लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः

धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 7

वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत

यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन्

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 8

ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम्

आजगामाथ तत्रैव यत्र देवाः समीजिरे

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 9

तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्

विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 10

न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः

व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 11

न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः

तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम्

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 12

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे

न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 13

ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा

अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 14

स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत

अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 15

अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्

नष्टसंज्ञेषु देवेषु न प्रज्ञायत किंचन

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 16

त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा

पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 17

प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः

केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 18

स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च

अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 19

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्

अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 20

ततो विधनुषं देवा देवश्रेष्ठमुपागमन्

शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 21

ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये

स जलं पावको भूत्वा शोषयत्यनिशं प्रभो

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 22

भगस्य नयने चैव बाहू च सवितुस्तथा

प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 23

ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह

सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 24

तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो

प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान्

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 25

ततस्ते निहताः सर्वे तव पुत्रा महारथाः

अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः

Mahabharata

Sauptika Parva, Adhyaya 18, Verse 26

न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम्

महादेवप्रसादः स कुरु कार्यमनन्तरम्