Sauptika Parva, Adhyaya 14, Verse 1
इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः
द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः
द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते
द्रोणोपदिष्टं तस्यायं कालः संप्रति पाण्डव
भ्रातॄणामात्मनश्चैव परित्राणाय भारत
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम्
केशवेनैवमुक्तस्तु पाण्डवः परवीरहा
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परंतपः
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्
ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना
प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम्
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः
महद्भयं च भूतानां सर्वेषां समजायत
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम्
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा
ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते
महर्षी सहितौ तत्र दर्शयामासतुस्तदा
नारदः स च धर्मात्मा भरतानां पितामहः
उभौ शमयितुं वीरौ भारद्वाजधनंजयौ
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ
दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ
प्राणभृद्भिरनाधृष्यौ देवदानवसंमतौ
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया
नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथंचन