Mahabharata

Sauptika Parva, Adhyaya 13

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 1

एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः

सर्वायुधवरोपेतमारुरोह महारथम्

युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 2

आदित्योदयवर्णस्य धुरं रथवरस्य तु

दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत्

पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 3

विश्वकर्मकृता दिव्या नानारत्नविभूषिता

उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 4

वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान्

तस्य सत्यवतः केतुर्भुजगारिरदृश्यत

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 5

अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम्

अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 6

अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ

रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम्

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 7

तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम्

प्रतोदेन जवोपेतान्परमाश्वानचोदयत्

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 8

ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम्

आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 9

वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम्

प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 10

ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ

भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 11

क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम्

नाशक्नुवन्वारयितुं समेत्यापि महारथाः

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 12

स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम्

ययौ भागिरथीकच्छं हरिभिर्भृशवेगितैः

यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम्

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 13

स ददर्श महात्मानमुदकान्ते यशस्विनम्

कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 14

तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम्

रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 15

तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः

भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत्

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 16

स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम्

भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ

व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 17

स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत्

जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना

स तामापदमासाद्य दिव्यमस्त्रमुदीरयत्

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 18

अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान्

अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 19

इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान्

सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह

Mahabharata

Sauptika Parva, Adhyaya 13, Verse 20

ततस्तस्यामिषीकायां पावकः समजायत

प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः