Mahabharata

Sauptika Parva, Adhyaya 12

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 1

तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः

अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 2

एष पाण्डव ते भ्राता पुत्रशोकमपारयन्

जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 3

भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ

तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 4

यत्तदाचष्ट पुत्राय द्रोणः परपुरंजयः

अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 5

तन्महात्मा महाभागः केतुः सर्वधनुष्मताम्

प्रत्यपादयदाचार्यः प्रीयमाणो धनंजयम्

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 6

तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः

ततः प्रोवाच पुत्राय नातिहृष्टमना इव

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 7

विदितं चापलं ह्यासीदात्मजस्य महात्मनः

सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम्

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 8

परमापद्गतेनापि न स्म तात त्वया रणे

इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 9

इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान्

न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 10

स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम्

निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम्

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 11

ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत

अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 12

स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु

एक एकं समागम्य मामुवाच हसन्निव

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 13

यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः

अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 14

अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम्

तदद्य मयि दाशार्ह यथा पितरि मे तथा

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 15

अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम

ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 16

स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः

याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 17

देवदानवगन्धर्वमनुष्यपतगोरगाः

न समा मम वीर्यस्य शतांशेनापि पिण्डिताः

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 18

इदं धनुरियं शक्तिरिदं चक्रमियं गदा

यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 19

यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे

तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 20

स सुनाभं सहस्रारं वज्रनाभमयस्मयम्

वव्रे चक्रं महाबाहो स्पर्धमानो मया सह

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 21

गृहाण चक्रमित्युक्तो मया तु तदनन्तरम्

जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना

न चैतदशकत्स्थानात्संचालयितुमच्युत

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 22

अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे

सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत्

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 23

ततः सर्वबलेनापि यच्चैतन्न शशाक सः

उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः

कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 24

निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम्

अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम्

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 25

यः स देवमनुष्येषु प्रमाणं परमं गतः

गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 26

यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम्

द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शंकरम्

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 27

यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि

नादेयं यस्य मे किंचिदपि दाराः सुतास्तथा

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 28

तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा

नोक्तपूर्वमिदं वाक्यं यत्त्वं मामभिभाषसे

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 29

ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम्

हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः

Mahabharata

Sauptika Parva, Adhyaya 12, Verse 30

समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत

सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः