Mahabharata

Sauptika Parva, Adhyaya 11

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 1

स दृष्ट्वा निहतान्संख्ये पुत्रान्भ्रातॄन्सखींस्तथा

महादुःखपरीतात्मा बभूव जनमेजय

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 2

ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः

स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 3

तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्

सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 4

ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा

नकुलः कृष्णया सार्धमुपायात्परमार्तया

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 5

उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम्

तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत्

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 6

कम्पमानेव कदली वातेनाभिसमीरिता

कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 7

बभूव वदनं तस्याः सहसा शोककर्शितम्

फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान्

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 8

ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः

बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 9

सा समाश्वासिता तेन भीमसेनेन भामिनी

रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत्

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 10

दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम्

आत्मजान्क्षत्रधर्मेण संप्रदाय यमाय वै

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 11

दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम्

अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 12

आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान्

उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 13

प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा

शोकस्तपति मां पार्थ हुताशन इवाशयम्

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 14

तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे

ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम्

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 15

इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः

न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 16

एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्

युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 17

दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम्

प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 18

धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे

पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 19

द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः

तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 20

द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः

निहत्य संख्ये तं पापं पश्येयं मणिमाहृतम्

राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 21

इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना

भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत्

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 22

त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्

जहि तं पापकर्माणं शम्बरं मघवानिव

न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 23

श्रुतं तत्सर्वलोकेषु परमव्यसने यथा

द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते

हिडिम्बदर्शने चैव तथा त्वमभवो गतिः

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 24

तथा विराटनगरे कीचकेन भृशार्दिताम्

मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 25

यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा

तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 26

तस्या बहुविधं दुःखान्निशम्य परिदेवितम्

नामर्षयत कौन्तेयो भीमसेनो महाबलः

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 27

स काञ्चनविचित्राङ्गमारुरोह महारथम्

आदाय रुचिरं चित्रं समार्गणगुणं धनुः

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 28

नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः

विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 29

ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः

वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः

Mahabharata

Sauptika Parva, Adhyaya 11, Verse 30

शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः

द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान्