Mahabharata

Sauptika Parva, Adhyaya 10

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 1

तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः

शशंस धर्मराजाय सौप्तिके कदनं कृतम्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 2

द्रौपदेया महाराज द्रुपदस्यात्मजैः सह

प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 3

कृतवर्मणा नृशंसेन गौतमेन कृपेण च

अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 4

एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः

सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 5

छिद्यमानस्य महतो वनस्येव परश्वधैः

शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 6

अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते

मुक्तः कथंचिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 7

तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः

पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 8

तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः

भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 9

लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा

जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 10

दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः

जीयमाना जयन्त्यन्ये जयमाना वयं जिताः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 11

हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान्

बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 12

अनर्थो ह्यर्थसंकाशस्तथार्थोऽनर्थदर्शनः

जयोऽयमजयाकारो जयस्तस्मात्पराजयः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 13

यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः

कथं मन्येत विजयं ततो जिततरः परैः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 14

येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे

निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 15

कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे

चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 16

क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः

ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 17

रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम्

शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 18

संग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम्

ये तेरुरुच्चावचशस्त्रनौभि;स्ते राजपुत्रा निहताः प्रमादात्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 19

न हि प्रमादात्परमोऽस्ति कश्चि;द्वधो नराणामिह जीवलोके

प्रमत्तमर्था हि नरं समन्ता;त्त्यजन्त्यनर्थाश्च समाविशन्ति

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 20

ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम्

महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 21

महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम्

ये सेहुरात्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 22

न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा

पश्याप्रमादेन निहत्य शत्रू;न्सर्वान्महेन्द्रं सुखमेधमानम्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 23

इन्द्रोपमान्पार्थिवपुत्रपौत्रा;न्पश्याविशेषेण हतान्प्रमादात्

तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः

अमर्षितैर्ये निहताः शयाना; निःसंशयं ते त्रिदिवं प्रपन्नाः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 24

कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति

भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम्

ध्रुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 25

तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम्

पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 26

इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे

गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 27

माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः

ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 28

प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः

रोरूयमाणः प्रययौ सुताना;मायोधनं भूतगणानुकीर्णम्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 29

स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च

भूमौ शयानान्रुधिरार्द्रगात्रा;न्विभिन्नभग्नापहृतोत्तमाङ्गान्

Mahabharata

Sauptika Parva, Adhyaya 10, Verse 30

स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः

उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसंज्ञः