Adi Parva, Adhyaya 1, Verse 0
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
Containing 210 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्
विनयावनतो भूत्वा कदाचित्सूतनन्दनः
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु
निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः
कुत आगम्यते सौते क्व चायं विहृतस्त्वया
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः
कथिताश्चापि विधिवद्या वैशंपायनेन वै
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम्
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्
यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः
संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम्
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्
असच्च सच्चैव च यद्विश्वं सदसतः परम्
परावराणां स्रष्टारं पुराणं परमव्ययम्
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्
महर्षेः पूजितस्येह सर्वलोके महात्मनः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः
आचख्युः कवयः केचित्संप्रत्याचक्षते परे
आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम्
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते
बृहदण्डमभूदेकं प्रजानां बीजमक्षयम्
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते
यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम्
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम्
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम्
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ