Mahabharata

Sauptika Parva, Adhyaya 8

Containing 151 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 1

तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे

कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 2

कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ

असह्यमिति वा मत्वा न निवृत्तौ महारथौ

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 3

कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान्

दुर्योधनस्य पदवीं गतौ परमिकां रणे

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 4

पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ

कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 5

तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि

कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 6

अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ

प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 7

यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने

किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 8

अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्

यथा न कश्चिदपि मे जीवन्मुच्येत मानवः

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 9

इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्

अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 10

स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह

धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 11

ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे

प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 12

अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत

पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 13

क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते

माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 14

तं शयानं महात्मानं विस्रब्धमकुतोभयम्

प्राबोधयत पादेन शयनस्थं महीपते

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 15

स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः

अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 16

तमुत्पतन्तं शयनादश्वत्थामा महाबलः

केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 17

स बलात्तेन निष्पिष्टः साध्वसेन च भारत

निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 18

तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः

नदन्तं विस्फुरन्तं च पशुमारममारयत्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 19

तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्

आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः

त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 20

तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत्

आचार्यघातिनां लोका न सन्ति कुलपांसन

तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 21

एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्

मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 22

तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि

अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 23

ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम्

भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 24

तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्

अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 25

स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः

रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 26

अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे

सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 27

राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः

व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 28

तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः

क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन्

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 29

स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम्

अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै

Mahabharata

Sauptika Parva, Adhyaya 8, Verse 30

राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम्

हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति