Sauptika Parva, Adhyaya 7, Verse 1
स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते
अवतीर्य रथोपस्थाद्दध्यौ संप्रयतः स्थितः
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते
अवतीर्य रथोपस्थाद्दध्यौ संप्रयतः स्थितः
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्
गिरिशं वरदं देवं भवं भावनमव्ययम्
शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम्
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्
श्मशानवासिनं दृप्तं महागणपतिं प्रभुम्
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम्
मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा
सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम्
स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम्
विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम्
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च
व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम्
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्
गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम्
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्
तनुवाससमत्युग्रमुमाभूषणतत्परम्
परं परेभ्यः परमं परं यस्मान्न विद्यते
इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम्
हिरण्यकवचं देवं चन्द्रमौलिविभूषितम्
प्रपद्ये शरणं देवं परमेण समाधिना
इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम्
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्
इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः
पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत
द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन्
दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः
द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च
महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः
दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत
कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च
हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च
पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः
निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः
प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप
शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च
शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः
मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः
उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलंकृताः
पद्मोत्पलापीडधरास्तथा कुमुदधारिणः
माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः
भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत
पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः
सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः
महापाशोद्यतकरास्तथा लगुडपाणयः
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः
महासर्पाङ्गदधराश्चित्राभरणधारिणः
रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः
नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च