Sauptika Parva, Adhyaya 5, Verse 1
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः
तथैव तावन्मेधावी विनयं यो न शिक्षति
न च किंचन जानाति सोऽपि धर्मार्थनिश्चयम्
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत्
अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः
दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम्
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम्
प्राज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः
स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना
कुरु मे वचनं तात येन पश्चान्न तप्यसे
न वधः पूज्यते लोके सुप्तानामिह धर्मतः
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम्
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम्
त्वं पुनः सूर्यसंकाशः श्वोभूत उदिते रवौ
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्
असंभावितरूपं हि त्वयि कर्म विगर्हितम्
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम
एवमेतद्यथात्थ त्वमनुशास्मीह मातुल
तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः
प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः
कर्णश्च पतिते चक्रे रथस्य रथिनां वरः
उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना
तथा शांतनवो भीष्मो न्यस्तशस्त्रो निरायुधः
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे
क्रोशतां भूमिपालानां युयुधानेन पातितः
दुर्योधनश्च भीमेन समेत्य गदया मृधे
पश्यतां भूमिपालानामधर्मेण निपातितः
एकाकी बहुभिस्तत्र परिवार्य महारथैः
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः
वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति
एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके
कामं कीटः पतंगो वा जन्म प्राप्य भवामि वै
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्
न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम्
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्
एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान्
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम्
एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ
समदुःखसुखौ चैव नावां शङ्कितुमर्हसि