Sauptika Parva, Adhyaya 3, Verse 1
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्
अश्वत्थामा महाराज दुःखशोकसमन्वितः
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्
अश्वत्थामा महाराज दुःखशोकसमन्वितः
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत
पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्
कारणान्तरयोगेन योगे येषां समा मतिः
तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत्
तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा
कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते
अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः
चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि
भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः
प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः
अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम्
व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम्
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा
भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति
तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः
कर्तुमारभते प्रीतो मरणादिषु कर्मसु
सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः
चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते
उपजाता व्यसनजा येयमद्य मतिर्मम
युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम्
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च
वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम्
ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम्
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते
मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः
क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम्
प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम्
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि
सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम्
गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः
विमुक्तयुग्यकवचा हर्षेण च समन्विताः
वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च
तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम्
तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः
सूदयिष्यामि विक्रम्य मघवानिव दानवान्
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान्
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे
पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव
अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च
अर्दयिष्यामि संक्रुद्धो रणे पाण्डुसुतांस्तथा