Mahabharata

Sauptika Parva, Adhyaya 2

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 1

श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो

ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुज

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 2

आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः

दैवे पुरुषकारे च परं ताभ्यां न विद्यते

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 3

न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम

न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 4

ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः

प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 5

पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम्

कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम्

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 6

उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम्

व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 7

प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते

बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 8

तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते

प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 9

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ

विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 10

कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति

तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 11

उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम्

अफलं दृश्यते लोके सम्यगप्युपपादितम्

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 12

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः

उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 13

प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि

अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम्

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 14

चेष्टामकुर्वँल्लभते यदि किंचिद्यदृच्छया

यो वा न लभते कृत्वा दुर्दशौ तावुभावपि

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 15

शक्नोति जीवितुं दक्षो नालसः सुखमेधते

दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 16

यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम्

नास्य वाच्यं भवेत्किंचित्तत्त्वं चाप्यधिगच्छति

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 17

अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः

स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 18

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा

स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 19

हीनं पुरुषकारेण यदा दैवेन वा पुनः

कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्

हीनं पुरुषकारेण कर्म त्विह न सिध्यति

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 20

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते

दक्षो दाक्षिण्यसंपन्नो न स मोघं विहन्यते

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 21

सम्यगीहा पुनरियं यो वृद्धानुपसेवते

आपृच्छति च यच्छ्रेयः करोति च हितं वचः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 22

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः

तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 23

वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत्

उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 24

रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः

अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 25

सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना

असमर्थ्य समारब्धो मूढत्वादविचिन्तितः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 26

हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह

वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 27

पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति

तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 28

अन्वावर्तामहि वयं यत्तु तं पापपूरुषम्

अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 29

अनेन तु ममाद्यापि व्यसनेनोपतापिता

बुद्धिश्चिन्तयतः किंचित्स्वं श्रेयो नावबुध्यते

Mahabharata

Sauptika Parva, Adhyaya 2, Verse 30

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः

ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्