Sauptika Parva, Adhyaya 1, Verse 1
ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः
उपास्तमयवेलायां शिबिराभ्याशमागताः
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः
उपास्तमयवेलायां शिबिराभ्याशमागताः
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते
सेनानिवेशमभितो नातिदूरमवस्थिताः
निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन्
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः
ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः
राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः
अश्रद्धेयमिदं कर्म कृतं भीमेन संजय
यत्स नागायुतप्राणः पुत्रो मम निपातितः
अवध्यः सर्वभूतानां वज्रसंहननो युवा
पाण्डवैः समरे पुत्रो निहतो मम संजय
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः
अद्रिसारमयं नूनं हृदयं मम संजय
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति
न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे
कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय
कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत्
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय
येन पुत्रशतं पूर्णमेकेन निहतं मम
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः
अकुर्वता वचस्तेन मम पुत्रेण संजय
अधर्मेण हते तात पुत्रे दुर्योधने मम
कृतवर्मा कृपो द्रौणिः किमकुर्वत संजय
गत्वा तु तावका राजन्नातिदूरमवस्थिताः
अपश्यन्त वनं घोरं नानाद्रुमलताकुलम्
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः
सूर्यास्तमयवेलायामासेदुः सुमहद्वनम्
नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम्
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्
नानातोयसमाकीर्णं तडागैरुपशोभितम्
पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम्
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः
शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्
तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः
उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे
सर्वस्य जगतो धात्री शर्वरी समपद्यत
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलंकृतम्
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः
ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः
दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः
रात्रिंचराणां सत्त्वानां निनादोऽभूत्सुदारुणः
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्
निद्रया च परीताङ्गा निषेदुर्धरणीतले
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः