Maha Vakya Upanishad

Complete Upanishad

Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.

Maha Vakya Upanishad

Complete Upanishad, Verse 1

महावाक्योपनिषत्

Maha Vakya Upanishad

Complete Upanishad, Verse 2

यन्महावाक्यसिद्धान्तमहाविद्याकलेवरम् ।

विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

Maha Vakya Upanishad

Complete Upanishad, Verse 3

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः

व्यशेम देवहितं यदायुः ॥

Maha Vakya Upanishad

Complete Upanishad, Verse 4

ॐ शान्तिः शान्तिः शान्तिः ॥

Maha Vakya Upanishad

Complete Upanishad, Verse 5

हरिः ॐ ॥

Maha Vakya Upanishad

Complete Upanishad, Verse 6

अथ होवाच भगवान्ब्रह्मापरोक्षानुभवपरोपनिषदं

व्याख्यास्यामः ।

गुह्याद्गुह्यपरमेषा न प्राकृतायोपदेष्टव्या ।

सात्विकायान्तर्मुखाय परिशुश्रूषवे ।

अथ

संसृतिबन्धमोक्षयोर्विद्याविद्ये चक्षुषी उपसंहृत्य

विज्ञायाविद्यालोकाण्डस्तमोदृक् ।

तमो हि

शारीरप्रपञ्चमाब्रह्मस्थावरान्तमनन्ताखिलाजाण्डभूतम् ।

निखिलनिगमोदितसकामकर्मव्यवहारो लोकः ।

नैषोऽन्धकारोऽयमात्मा ।

विद्या हि काण्डान्तरादित्यो

ज्योतिर्मण्डलं ग्राह्यं नापरम् ।

असावादित्यो ब्रह्मेत्यजपयोपहितं

हंसः सोऽहम् ।

प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यां

समुपलभ्यैवं सा चिरं लब्ध्वा त्रिवृदात्मनि

ब्रह्मण्यभिध्यायमाने सच्चिदानन्दः परमात्माविर्भवति ।

सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव ।

नैषा समाधिः ।

नैषा योगसिद्धिः ।

नैषा मनोलयः ।

ब्रह्मैक्यं तत् ।

आदित्यवर्णं तमसस्तु पारे ।

सर्वाणि रूपाणि विचित्य धीरः ।

नामानि कृत्वाऽभिवदन्यदास्ते ।

धाता पुरस्ताद्यमुदाजहार ।

शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।

तमेव विद्वानमृत इह भवति ।

नान्यः पन्था अयनाय विद्यते ।

यज्ञेन यज्ञमयजन्त देवाः ।

तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्ते ।

यत्र पूर्वे साध्याः सन्ति देवाः ।

सोऽहमर्कः परं ज्योतिरर्कज्योतिरहं शिवः ।

आत्मज्योतिरहं शुक्रः सर्वज्योतिरसावदोम् ।

य एतदथर्वशिरोऽधीते ।

प्रातरधीयानो रात्रिकृतं

पापं नाशयति ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति ।

मध्यन्दिनमादित्याभिमुखोऽधीयानः

पञ्चमहापातकोपपातकात्प्रमुच्यते ।

सर्ववेदपारायणपुण्यं लभते ।

श्रीमहाविष्णुसायुज्यमवाप्नोतीत्युपनिषत् ॥

Maha Vakya Upanishad

Complete Upanishad, Verse 7

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः

व्यशेम देवहितं यदायुः ॥

Maha Vakya Upanishad

Complete Upanishad, Verse 8

ॐ शान्तिः शान्तिः शान्तिः ।

हरिः ॐ तत्सत्

इति महावाक्योपनिषत्समाप्ता ॥