Complete Upanishad, Verse 1
महोपनिषत्
यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् ।
परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः ॥
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥
सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरकरणम-
मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
अथातो महोपनिषदं व्याख्यास्यमस्तदाहुरेको ह वै नारायण
आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न
नक्षत्राणि न सूर्यो न चन्द्रमाः ।
स एकाकी न रमते ।
तस्य
ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते ।
तस्मिन्पुरुषाश्चतुर्दश
जायन्ते ।
एका कन्या ।
दशेन्द्रियाणि मन एकादशं तेजः ।
द्वादशोऽहङ्कारः ।
त्रयोदशकः प्राणः ।
चतुर्दश आत्मा ।
पञ्चदशी बुद्धिः ।
भूतानि पञ्च तन्मात्राणि ।
पञ्च महाभूतानि ।
स एकः पञ्चविंशतिः पुरुषः ।
तत्पुरुषं पुरुषो निवेश्य नास्य
प्रधानसंवत्सरा जायन्ते ।
संवत्सरादधिजायन्ते ।
अथ पुनरेव
नारायणः सोऽन्यत्कामो मनसाध्यायत ।
तस्य ध्यानान्तःस्थस्य
ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते ।
बिभ्रच्छ्रियं यशः
सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय
ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि छन्दांसि तान्यङ्गे
समाश्रितानि ।
तस्मादीशानो महादेवो महादेवः ।
अथ पुनरेव
नारायणः सोऽन्यत्कामो मनसाध्यायत ।
तस्य ध्यानान्तःस्थस्य
ललाटात्स्वेदोऽपपत् ।
ता इमाः प्रतता आपः ।
ततस्तेजो हिरण्मयमण्डलम् ।
तत्र ब्रह्मा चतुर्मुखोऽजायत ।
सोऽध्याय्त् ।
पूर्वाभिमुखो भूत्वा
भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदोऽग्निर्देवता ।
पश्चिमाभिमुखो
भूत्वा भुवरिति व्याहृतिस्त्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता ।
उत्तराभिमुखो भूत्वा स्वरिति व्याहृतिर्जाग्रतं छन्दः सामवेदः सूर्यो
देवता ।
दक्षिणाभिमुखो भूत्वा महरितिव्याहृतिरानुष्टभ
छन्दोऽथर्ववेदाः सोमो देवता ।
सहस्रशीर्षं देवं सहस्राक्षं विश्वसम्भुवम् ।
विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।
पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् ।
पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम् ।
हृदयं चाप्यधोमुखं सन्तत्यै सीत्कराभीश्च ।
तस्य मध्ये महानर्चिर्विश्वर्चिर्विश्वतोमुखम् ।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।
तस्याः शिखाया मध्ये परमात्मा व्यवस्थिता ।
स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् ॥
इति प्रथमोध्यायः