Krishna Upanishad

Complete Upanishad

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Krishna Upanishad

Complete Upanishad, Verse 1

श्रीकृष्णोपनिषत्

॥

श्री गुरुभ्यो नमः हरिः ॐ ॥

यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।

अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम्

Krishna Upanishad

Complete Upanishad, Verse 2

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ।

॥

अथ प्रथम खंडः ॥

हरिः ॐ ।

श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं

दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।

तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति ।

भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिङ्गथ

अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु ।

अन्योन्यविग्रहं

धार्यं तवाङ्गस्पर्शनादिह ।

शाश्वतस्पर्शयितास्माकं

गृण्हीमोऽवतारान्वयम्

Krishna Upanishad

Complete Upanishad, Verse 3

रुद्रादीनां वचः श‍ृत्वा प्रोवाच भगवान्स्वयम् ।

अङ्गयङ्गं करिष्यामि भवद्वाक्यं करोम्यहम्

Krishna Upanishad

Complete Upanishad, Verse 4

मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् ।

यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी

Krishna Upanishad

Complete Upanishad, Verse 5

माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी ।

प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी

Krishna Upanishad

Complete Upanishad, Verse 6

तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता ।

अजेया वैष्णवी माया जप्येन च सुता पुरा

Krishna Upanishad

Complete Upanishad, Verse 7

देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।

निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः

Krishna Upanishad

Complete Upanishad, Verse 8

स्तुवते सततं यस्तु सोऽवतीर्णो महीतले ।

वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह

Krishna Upanishad

Complete Upanishad, Verse 9

गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।

वंशस्तु भगवान् रुद्रः श‍ृङ्गमिन्द्रः सगोसुरः

Krishna Upanishad

Complete Upanishad, Verse 10

गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः ।

लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः

Krishna Upanishad

Complete Upanishad, Verse 11

गोपरूपो हरिः साक्षान्मायाविग्रहधारणः ।

दुर्बोधं कुहकं तस्य मायया मोहितं जगत्

Krishna Upanishad

Complete Upanishad, Verse 12

दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः ।

रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम्

Krishna Upanishad

Complete Upanishad, Verse 13

बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् ।

शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम्

Krishna Upanishad

Complete Upanishad, Verse 14

अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा ।

ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः

Krishna Upanishad

Complete Upanishad, Verse 15

द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः ।

दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः

Krishna Upanishad

Complete Upanishad, Verse 16

दया सा रोहिणी माता सत्यभामा धरेति वै ।

अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः

Krishna Upanishad

Complete Upanishad, Verse 17

शमो मित्रः सुदामा च सत्याक्रोद्धवो दमः ।

यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरुपो व्यवस्थितः

Krishna Upanishad

Complete Upanishad, Verse 18

दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः ।

दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे

Krishna Upanishad

Complete Upanishad, Verse 19

क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ ।

संहारार्थं च शत्रूणां रक्षणाय च संस्थितः

Krishna Upanishad

Complete Upanishad, Verse 20

कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।

यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक्

Krishna Upanishad

Complete Upanishad, Verse 21

जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः ।

यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः

Krishna Upanishad

Complete Upanishad, Verse 22

कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।

चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि

Krishna Upanishad

Complete Upanishad, Verse 23

यावन्ति देवरूपाणि वदन्ति विभुधा जनाः ।

नमन्ति देवरूपेभ्य एवमादि न संशयः

Krishna Upanishad

Complete Upanishad, Verse 24

गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी ।

धनुः शार्ङ्गं स्वमायाच शरत्कालः सुभोजनः

Krishna Upanishad

Complete Upanishad, Verse 25

अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया ।

गरुडो वटभाण्डीरः सुदामा नारदो मुनिः

Krishna Upanishad

Complete Upanishad, Verse 26

वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी ।

तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ।

भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम्